(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.83. अध्यायः 083
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मन्त्र्यादिलक्षणकथनम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-83-0x(5558)(68051)
सभासदः सहायाश्च सुहृदश्च विशांपते।
परिच्छदास्तथाऽमात्याः कीदृशाः स्युः पितामह॥ 12-83-1(68052)
भीष्म उवाच। 12-83-2x(5559)
ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः।
शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः॥ 12-83-2(68053)
अमात्याश्चातिशूराश्च ब्रह्मण्याश्च बहुश्रुताः।
सुसंतृष्टाश्च कौन्तेय महोत्साहाश्च कर्मसु॥ 12-83-3(68054)
एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत॥ 12-83-4(68055)
कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति।
प्रसन्नमप्रसन्नं वा पीडितं हतमेव वा।
आवर्तयति भूयिष्ठं तदेव ह्यनुपालितम्॥ 12-83-5(68056)
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः।
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः॥ 12-83-6(68057)
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः।
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः॥ 12-83-7(68058)
कुलीनाञ्शीलसंपन्नानिङ्गितज्ञाननिष्ठुरान्।
देशकालविधानज्ञान्भर्तृकार्यहितैपिणः।
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः॥ 12-83-8(68059)
अर्थमानार्घसत्कारैर्भोगैरुच्चावचैः प्रियैः।
यानर्थभाजो मन्येथास्तेते स्युः सुखभागिनः॥ 12-83-9(68060)
अभिन्नवृत्ता विद्वांसः सद्वॄत्ताश्चरितव्रताः।
नत्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः॥ 12-83-10(68061)
अनार्या ये न जानन्ति समयं मन्दचेतसः।
तेभ्यः परिजुगुप्सेथा ये चापि समयच्युताः॥ 12-83-11(68062)
नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः।
यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत्॥ 12-83-12(68063)
श्रेयसो लक्षणं चैतद्विक्रमो यस्य दृश्यते।
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति॥ 12-83-13(68064)
समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः।
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत्॥ 12-83-14(68065)
अमानी अत्यवाक्शक्तो जितात्मा मानसंयुतः।
स ते मन्त्रसहायः स्यात्सर्वावस्थापरीक्षितः॥ 12-83-15(68066)
कुलीनः कुलसंपन्नस्तितिक्षुर्दश आत्मवान्।
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम्॥ 12-83-16(68067)
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः।
अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्यपि॥ 12-83-17(68068)
अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणम्।
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः॥ 12-83-18(68069)
संबन्धिपुरुषैराप्तैरभिजातैः स्वदेशजैः।
अहार्यैरव्यभीचारैः सर्वशः सुपरीक्षितैः॥ 12-83-19(68070)
यौनाः श्रौतास्तथा मौलास्तथैवाप्यनहंकृताः।
कर्तव्या भूतिकामेन पुरुषेण बुभूपता॥ 12-83-20(68071)
एषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना।
तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः॥ 12-83-21(68072)
परीक्ष्य च गुणान्नित्यं प्रौढभावान्धुरंधरान्।
पञ्चोपधाव्यतीतांश्च कुर्याद्राजाऽर्थकारिणः॥ 12-83-22(68073)
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान्।
कुलीनान्सत्वसंपन्नानिङ्गितज्ञाननिष्ठुरान्॥ 12-83-23(68074)
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः।
नित्यमर्थेषु सर्वेषु राजन्कुर्वीत मन्त्रिणः॥ 12-83-24(68075)
हीनतेजोभिसंसृष्टो नैव जातु व्यवस्यति।
अवश्यं जनयत्येव सर्वकर्मसु संशयम्॥ 12-83-25(68076)
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत।
धर्मार्थकामसंयुक्तो नालं मन्त्रं परीक्षितुम्॥ 12-83-26(68077)
तथैवानभिजातोऽपि काममस्तु बहुश्रुतः।
अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु॥ 12-83-27(68078)
यो वाऽप्यस्थिरसंकल्पो बुद्धिमानागतागमः। 12-83-28bउपायज्ञोऽपि नालं स कर्म प्रापयितुं चिरम्॥ 12-83-28(68079)
केवलात्पुनरादानात्कर्मणो नोपपद्यते।
परामर्शो विशेषणामश्रुतस्येह दुर्मतेः॥ 12-83-29(68080)
मन्त्रिण्यननुरक्ते तु विश्वासो नोपपद्यते।
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत्॥ 12-83-30(68081)
व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः।
मारुतोपहितच्छिद्रैः प्रविश्याग्निरिव द्रुमम्॥ 12-83-31(68082)
संक्रुद्धश्चैकदा स्वामी स्थानाच्चैवापकर्षति।
वाचा क्षिपति संरब्धः पुनः पश्चात्प्रसीदति॥ 12-83-32(68083)
तानितान्यनुरक्तेन शक्यानि हि तितिक्षितुम्।
मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः॥ 12-83-33(68084)
यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया।
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम्॥ 12-83-34(68085)
अनृजुस्त्वनुरक्तोऽपि संपन्नश्चेतरैर्गुणैः।
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति॥ 12-83-35(68086)
योऽमित्रैः सह संबद्धो न परान्बहुमन्यते।
असुहृत्तादृशो ज्ञेयो न मन्त्रं श्रोतुमर्हति॥ 12-83-36(68087)
अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः।
असुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति॥ 12-83-37(68088)
आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः।
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति॥ 12-83-38(68089)
विधर्मतो विप्रकृतः पिता यस्याभवत्पुरा।
सत्कृतः स्थापितः सोऽपि न मन्त्रं श्रोतुमर्हति॥ 12-83-39(68090)
यः स्वल्पेनापि कार्येण सुहृदाक्षारितो भवेत्।
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति॥ 12-83-40(68091)
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः।
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति॥ 12-83-41(68092)
ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः।
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति॥ 12-83-42(68093)
सत्यवाक्शीलसंपन्नो गन्भीरः सत्रपो मृदुः।
पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति॥ 12-83-43(68094)
संतुष्टः संमतः सद्भिः शौटीरो द्वेष्यपापकः।
मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति॥ 12-83-44(68095)
सर्वलोकमिमं शक्तः सान्त्वेन कुरुते वशम्।
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप॥ 12-83-45(68096)
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः।
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति॥ 12-83-46(68097)
तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः।
मन्त्रिणः प्रकृतिज्ञाः स्युख्यवरा महदीप्सवः॥ 12-83-47(68098)
स्वासु प्रकृतिषु च्छिद्रं लक्षयेरन्परस्य च।
मन्त्रिणां मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते॥ 12-83-48(68099)
नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्।
गूहेत्कूर्म इवाङगानि रक्षेद्विवरमात्मनः॥ 12-83-49(68100)
मन्त्रग्राहा हि राजस्य मन्त्रिणो ये मनीषिणः।
मन्त्रसंहननो राजा मन्त्राङ्गानीतरे जन्गः॥ 12-83-50(68101)
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते।
स्वामिनं त्वनुवर्न्तते वृत्त्यर्थमिह मन्त्रिणः॥ 12-83-51(68102)
संविनीयमदक्रोधौ मानमीर्ष्यां च निर्वृताः।
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः॥ 12-83-52(68103)
तेषां त्रयाणां त्रिविधं विमर्शं
विबुध्य चित्तं विनिवेश्य तत्र।
स्वनिश्चयं तं परनिश्चयं च
निदर्शयेदुत्तरमन्त्रकाले॥ 12-83-53(68104)
धर्मार्थकामज्ञमुपेत्य पृच्छे
द्युक्तो गुरुं ब्राह्मणमुत्तरार्थम्।
निष्ठा कृता तेन यदा सहः स्या
त्तं मन्त्रमार्गं प्रणयेदसक्तः॥ 12-83-54(68105)
एवं सदा मन्त्रयितत्र्यमाहु
र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः।
तस्मात्तमेवं प्रणयेत्सदैव
मन्त्रं प्रजासंग्रहणे समर्थम्॥ 12-83-55(68106)
न वामनाः कुब्जकृशा न खञ्जा
नान्धा जडाः स्त्री च नपुंसकाश्च।
न चात्र तिर्यक्च पुरो न पश्चा
न्नोर्ध्वं न चाधः प्रपरेत्कथंचित्॥ 12-83-56(68107)
आरुह्य वा वेश्म तथैव शून्यं
स्थलं प्रकाशं कुशकाशहीनम्।
वागङ्गदोषान्परिहृत्य सर्वा
न्संमन्त्रयेत्कार्यमहीनकालम्॥ ॥ 12-83-57(68108)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्र्यशीतितमोऽध्यायः॥ 83॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-83-1 सभासदः व्यवहारनिर्णायका। सहायाः युद्धादावुपयोगिनः। सुहृदो हितकर्तारः। परिच्छदाः सेनान्यादयः॥ 12-83-2 क्रमेणैषां लक्षणान्याह हीति। कथयितुं न्यायान्यायौ वक्तुम् हीनिषेधास्तथा दान्ताः सत्यलज्जासमन्विताः इति थ. पाठः॥ 12-83-5 सुल्दमाह सार्धेन कुलीन इति॥ 12-83-7 यावदार्द्रकपाणयः। शुष्कहस्तास्तु सद्यो विक्रियन्ते इत्यर्थः। ते त्वां जातु न सेवेयुर्यावते स्वङ्गपाणयः। इति ड. थ.पाठः॥ 12-83-9 अर्थो धनम्। मानः सन्मानः। अर्धो वस्रादिदानम्। सत्कार आदरः। यान्प्रियान्मन्येथात्तेऽर्थभाजः सुखभागिनश्च स्युः॥ 12-83-11 समयं धर्माधर्ममयदाम्। जुगुप्सेथाः रक्षस्व॥ 12-83-12 अन्यतरग्रहः गणैकयोरेक्तरस्य ग्राणप्रसङ्ग। एकश्चेद्गुणी तदा गणं त्यक्त्वा स एव ग्राह॥ 12-83-13 श्रेयसः साधोः॥ 12-83-14 सत्यः सत्यवान्॥ 12-83-18 भूमिपः परीक्षेतेति योजना॥ 12-83-19 अभिजातैः कुलीनैः। अहार्यैः धनादिना वशीकर्तुमशक्यैः। संबन्धिपुरुषैर्येषां संबन्धोऽस्ति तादृशैः॥ 12-83-20 यौना उत्तमयोनयः। मौलाः परंपरागताः कर्तव्याः। मन्त्रिण इति शेषः॥ 12-83-21 प्रकृतिः पूर्वकर्मजः संस्कारः। तेजः पराभिभवसामर्थ्यम्। स्थितिरव्यभिचारिता। धृतिर्धारणसमार्थ्यम्॥ 12-83-22 पञ्च मन्त्रिण इति तृतीयेनान्वयः। उपधा च्छलं तद्व्यतीतान्॥ 12-83-23 पर्याप्तं कृत्स्नस्य विवित्सितस्यार्थस्य निर्वाहकं वचनं येषां तान्॥ 12-83-25 हीनतेजसा मित्रेणाभिसंसृष्टः संबद्धः। न व्यवस्यति न कर्तव्याकर्तव्ये निश्चिनोति॥ 12-83-28 प्रापयितुं समापयितुम्॥ 12-83-29 आरम्भशूरोऽपि मूर्खः कर्मणः फलविशेषान् ज्ञातुं न शक्नोतीत्यर्थः॥ 12-83-32 अनुरक्तलक्षणमाह शिभिः संक्रुद्ध इत्यादिभिः॥ 12-83-38 आगन्तुर्नूतनः। सोऽप्य विश्वास्य इत्यर्थः॥ 12-83-39 विधर्मतोऽन्यायेन॥ 12-83-40 आक्षारितो धनग्रहणेन रिक्तः कृतः॥ 12-83-41 जानपदः स्वदेशजः॥ 12-83-42 परस्य शत्रोः आत्मनश्च प्रकृतीः स्वाम्यमात्यादिका जानातीति प्रकृतिज्ञः॥ 12-83-43 गम्भीरो मन्त्रगोपनसमर्थः॥ 12-83-44 शौटीरः प्रगल्भः। द्वेष्यवद्धेयं पापं यस्य स द्वेष्यपापकः॥ 12-83-45 आधित्सता आधातुच्छिता॥ 12-83-47 पञ्चानामभावे त्रयो वा कार्या इत्यर्थः॥ 12-83-49 विवरं छिद्रम् ॥ 12-83-50 मन्त्रसंहननो मन्त्रकवचः॥ 12-83-52 उपवाश्छलानि। तानि पञ्च॥ 12-83-56 अत्र मन्त्रस्थाने॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.